राजा भानुप्रतापः आसीत् उदयगिरिनगर्याः कुशलः शासकः। भयाद् एव जना सन्मार्गे चलन्ति इति आसीत् तस्य विचारः।अतः लघ्वपराधे अपि सः गुरुदण्डं प्रददत्। मृत्युदण्डे च नासीत् तस्य आपत्तिः। सामान्यरुपेण राज्ये प्रशान्ति आसीत् परन्तु भयकारणात् एव।
मंजरी देवी आसीत् भानुप्रतापस्य पुत्री। स्त्रीत्वे अपि क्षत्रियोचितविद्यायाम् सा आसीत् पारदर्शिनी। एकदा राजा अस्वस्थः अभवत्। स मंजरीम् आहूय तस्योपरि शासनभारं अर्पितवान्। अमात्यभैरवस्य परामर्शसहायेन मंजरीदेवी सुव्यवस्थितरुपेण राज्यं परिचालितवती। स्वल्पसमयेनैव सा शासनकार्ये पारंगता अभवत् । पुत्र्याः योग्यतां अपश्यन् राजा महान्तम् आनन्दम् अनुभवति स्म। सुखेन स मृत्युं प्राप्तवान्। मंजरीदेवी अतीव दुःखिता जाता। तां सान्त्वनां प्रदाय महामन्त्री भैरवः अवदत् “अस्यां विषादपूर्णपरिस्थित्याम् एव धैर्यस्य प्रयोजनीयता विद्यते। धैर्य्यं विना किमपि प्राप्तुं न शक्यते। तव दिवंगतः पिता अपि दुःखितः भविष्यति। “अमात्यस्य सुपरामर्शेन मंजरीदेवी शोकात् उत्थाय पुनः शासनविषये मनोनिवेशम् अकुर्वत्।
एकदा व्यापारसम्बन्धीचर्चां कर्तुम् अमात्यः भैरवः पार्श्वराज्यं गतवान्। मंजरीदेवी अपि मनोविनोदाय मृगयाम् अगच्छत्। तदा आखेटरता सा स्वजनात् दुरम् आगतवती। परिश्रान्ता सन् मंजरीदेवी सरोवरं निकषा वृक्षच्छायायाम् उपविष्टा । तस्य वृक्षस्य पृष्ठतः आसीत् एकः युवकः। स मंजरीदेवीम् दृष्ट्वा मोहितः अभवत्। बहुक्षणपश्चात् सैनिकानां पदध्वनिं श्रुत्वा प्रत्यावर्तनं कृतवान्।
आसीत् असौ युवकः एकः चित्रकारः। तस्य नामः आसीत् मुकुन्दः। चित्रणकार्य्यस्य उपादानान् संग्रहणार्थं तेन वनं गतमासीत्। तत्र एव सः मंजरीम् अपश्यत्। ग्रामे प्रत्यावर्तनस्य पश्चादपि सः मंजरीं विस्मर्तुम् असमर्थः अभवत् । स मंजर्याः चित्रणं कर्तुम् ऐच्छत् । मुकुन्दः अवगतः आसीत् यत् राज्ञ्याः दर्शनस्य अनुमतिं स कदापि प्राप्तुं न शक्यते । अतः एकदा निशायां राज्ञ्याः कक्षे प्रविश्य बहुक्षणपर्यन्तं ताम् अपश्यत् । परन्तु प्रत्यावर्तनसमये सैनिकाः तं गुप्तचरं मन्यन् धृतवान्तः। अनुमतिं विना प्रवेशस्य अपराधात् मुकुन्दः मृत्युदण्डं अलभत् । तदा मुकुन्दः मंजरीदेवीं प्रति अनुरोधं कृतवान् यत्- “अहं एकः चित्रकारः । मृगयायाम् अहम् प्रथमवारं त्वां दृष्टवान् । ततः एव मम मनसि तव प्रतिकृतिरचनायाः इच्छा अस्ति । मरणात् प्राक् एतां इच्छां पूर्णां कर्तुम् इच्छामि अहम् । “ सर्वं श्रुत्वा राज्ञी मुकुन्दम् एकसप्ताहस्य समयं प्रददत् । सा अवदत् “सप्ताहकालपश्चात् मृत्युदण्डं अवश्यं पालनीयम् । “ मुकुन्दः स्वीकृतवान्।
अन्तिमदिवसे चित्रणकार्यः समाप्तः जातः । मंजरीदेवी अतुलनीयं स्वचित्रम् अपश्यन् विमोहिता अभवत् । सा तत्क्षणात् सैनिकान् आहूय आदेशम् अददत् “मृत्युदण्डः सद्य एव निरोधव्यः । उपस्थापयथ मुकुन्दं मम सन्मुखम्।“
शूले प्रदानस्य पूर्वमुहुर्ते एव प्रहरी राज्ञ्याः आदेशं श्रावितवान्। मुकुन्दः राजसभायाम् आनीतः । अमात्यः भैरवः अपि तत्र उपस्थितः आसीत् । सर्वं ज्ञात्वा स अवदत् “मृत्युदण्डः अतीव भयंकरः । अनेन उपकारस्य अपेक्षा अपकारः अधिकः भवति। प्राणहरणस्य अधिकारः कस्यापि नास्ति,असौ सर्वथा वर्जनीयः ।
“तव वाक्यम् सार्वतोरुपेण शुद्धम् । अद्यतः उदयगिरिनगरे न कोऽपि मृत्युदण्डः दातव्यः। सर्वे जनाः सहर्षं ताम् अभिनन्दितवन्तः।
Friday, November 23, 2007
Subscribe to:
Posts (Atom)